|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.67. अध्यायः 067
Mahabharata - Sabha Parva - Chapter Topics
शिशुपालेन राज्ञां प्रशंसनपूर्वकं गर्हितेन भीष्मेण राज्ञां तिरस्करणादिकम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
भीष्म उवाच॥
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम्।
नूनमेव जगद्भर्तुः कृष्णस्यैव विनिश्चयः। 2-67-1(13906)
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः।
क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः॥ 2-67-2(13907)
एष ह्यस्य महाबाहुस्तेर्जोशश्च हरेर्ध्रुवम्।
तमेव पुनरादातुं कुरुतेऽत्र मतिं हरिः॥ 2-67-3(13908)
येनैष कुरुशार्दूल शार्दूल इव चेदिराट्।
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन्॥ 2-67-4(13909)
वैशम्पायन उवाच॥ 2-67-5x(1492)
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा।
उवाच चैन सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम्॥ 2-67-5(13910)
शिशुपाल उवाच॥ 2-67-6x(1493)
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः।
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः॥ 2-67-6(13911)
संस्तवे चमनो भीष्म परेषां रमते यदि।
तदा संस्तुहि राज्ञस्त्वमिमं हित्वा जनार्दनम्॥ 2-67-7(13912)
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम्।
जायमानेन येनेयभवद्दारिता मही॥ 2-67-8(13913)
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले।
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम्॥ 2-67-9(13914)
यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते।
कवचं च महाबाहो बालार्कसदृशप्रभम्॥ 2-67-10(13915)
वासवप्रतिमो येन जरासन्धोऽतिदुर्जयः।
विजितो बाहुयुद्धेन देहभेदं च लम्भितः॥ 2-67-11(13916)
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ।
स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ॥ 2-67-12(13917)
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम्।
इमां वसुमतीं कुर्यान्निः शेषामिति मे मतिः॥ 2-67-13(13918)
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्।
नाश्वत्थाम्नः समं भीष्म न च तौ स्तोतुमिच्छसि॥ 2-67-14(13919)
पृथिव्यां सागरान्तायां यो वैप्रतिसमो भवेत्।
दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम्॥ 2-67-15(13920)
जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम्।
द्रुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम्।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥ 2-67-16(13921)
वृद्धं च भरताचार्यं तथा शारद्वतं कृपम्।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥ 2-67-17(13922)
धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम्।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥ 2-67-18(13923)
भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम्।
भगदत्तं यूपकेथु जयत्सेनं च मागधम्॥ 2-67-19(13924)
विराटद्रुपदौ चोभौ शकुनिं च बहद्बलम्।
विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तमम्॥ 2-67-20(13925)
शङ्खं च सुमहाभागं वृषसेनं च मानिनम्।
एकलव्यं च विक्रान्तं कालिङ्गं च महारथम्॥ 2-67-21(13926)
अतिक्रम्य महावीर्यं किं प्रशंसति केशवम्।
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्।
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म वसुधाधिपान्। 2-67-22(13927)
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप।
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्॥ 2-67-23(13928)
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः।
अनाचरितमार्याणामिति ते भीष्म न श्रुतम्॥ 2-67-24(13929)
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः।
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते॥ 2-67-25(13930)
कथं भोजस्य पुरुषे वत्सपाले दुरात्मनि।
समावेशयसे सर्वं जगत्केवलकाम्यया॥ 2-67-26(13931)
अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत।
मयैव कथितं पूर्वं कुलिङ्गशकुनिर्यथा॥ 2-67-27(13932)
कुलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे।
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः॥ 2-67-28(13933)
मा साहसमितीदं सा सततं वाशते किल।
साहसं चात्मनातीव चरन्ती नावबुध्यते॥ 2-67-29(13934)
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः।
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना॥ 2-67-30(13935)
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्।
तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे॥ 2-67-31(13936)
इच्छतां भूमिपालानां भीष्म जीवस्यसंशयम्।
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः॥ 2-67-32(13937)
वैशम्पायन उवाच॥ 2-67-33x(1494)
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः।
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः॥ 2-67-33(13938)
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम्।
सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान्॥ 2-67-34(13939)
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः।
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे॥ 2-67-35(13940)
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य यद्वचः।
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्॥ 2-67-36(13941)
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः।
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना॥ 2-67-37(13942)
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः।
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान्॥ 2-67-38(13943)
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये।
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः॥ 2-67-39(13944)
पशुवद्घातनं वा मे दहनं वा कटाग्निना।
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम्॥ 2-67-40(13945)
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः।
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम्॥ 2-67-41(13946)
कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम्।
यादवस्यैव देवस्य देहं विशतु पातितः॥ ॥ 2-67-42(13947)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि सप्तषष्टितमोऽध्यायः॥ 67 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-67-15 वैप्रतिसमः विगतः प्रतिसमो यस्य स तथा। स्वार्थे तद्धितः। अतुल इत्यर्थः॥ 2-67-27 कुलिङ्गशकुनिरिति स्त्रीपक्षिविशेषः॥ 2-67-37 कटाग्निना कक्षाग्निना॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|